|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.107. अध्यायः 107
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरम्प्रति भीष्मेण गोदानफलविशेषविषयकेन्द्रप्रश्नानुवादः ॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति।
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो॥ 13-107-1(85722)
नृगेण च महद्दुःखमनुभूतं महात्मना।
एकापराधादज्ञानात्पितामह महामते॥ 13-107-2(85723)
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः।
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया॥ 13-107-3(85724)
किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो।
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत॥ 13-107-4(85725)
भीष्म उवाच। 13-107-5x(7112)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः॥ 13-107-5(85726)
शक्र उवाच। 13-107-6x(7113)
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयाऽर्चिषा।
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे॥ 13-107-6(85727)
कीदृशा भगवँल्लोका गवां तद्बूहि मेऽनघ।
यानावसन्ति दातार एतदिच्छामि वेदितुम्॥ 13-107-7(85728)
कीदृशाः किंफलाः किंस्वित्परमस्तत्र को गुणः।
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः॥ 13-107-8(85729)
कियत्कालं प्रदानस्य दाता च फलमश्नुते।
कथं बहुविधं दानं स्यादल्पमपि वा कथम्॥ 13-107-9(85730)
बह्वीनां कीदृशं दानमल्पानां वाऽपि दीदृशम्।
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे 13-107-10(85731)
कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो।
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर॥ 13-107-11(85732)
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते।
एतत्तथ्येन भगवन्मम शंसितुमर्हसि॥ ॥ 13-107-12(85733)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताधिकशततमोऽध्यायः॥ 107 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-107-2 एकापराधादज्ञानान्नृगस्तां दुर्गतिं गतः। इति ट. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|